मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ४

संहिता

अ॒ग्निमच्छा॑ देवय॒तां मनां॑सि॒ चक्षूं॑षीव॒ सूर्ये॒ सं च॑रन्ति ।
यदीं॒ सुवा॑ते उ॒षसा॒ विरू॑पे श्वे॒तो वा॒जी जा॑यते॒ अग्रे॒ अह्ना॑म् ॥

पदपाठः

अ॒ग्निम् । अच्छ॑ । दे॒व॒ऽय॒ताम् । मनां॑सि । चक्षूं॑षिऽइव । सूर्ये॑ । सम् । च॒र॒न्ति॒ ।
यत् । ई॒म् । सुवा॑ते । उ॒षसा॑ । विरू॑पे॒ इति॒ विऽरू॑पे । श्वे॒तः । वा॒जी । जा॒य॒ते॒ । अग्रे॑ । अह्ना॑म् ॥

सायणभाष्यम्

अग्निं देवमच्छाभिमुख्येन देवयतां देवानात्मन इच्छतां यजमानानां नमांसि सं चरन्ति । देवा यष्टव्यास्तदर्थं कदायं वर्धिष्यतीति ध्यायन्तीत्यर्थः । चक्षुंषीव सर्वेषां प्राणिनां यथा सूर्ये सञ्चरन्ति तद्वत् । यद्यदेमेनमग्निमुषसा सह विरूपे नानारूपे द्यावापृथिव्यौ सुवाते । जनयतः । तदानीं श्वेतः प्रकृष्टवर्णोपेतो वाजी वेजनवानग्निरह्नामग्र उदयकाले जायते । प्रवर्धत इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२