तुभ्यं॑ भरन्ति क्षि॒तयो॑ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् ।
आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते॑ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ॥
तुभ्य॑म् । भ॒र॒न्ति॒ । क्षि॒तयः॑ । य॒वि॒ष्ठ॒ । ब॒लिम् । अ॒ग्ने॒ । अन्ति॑तः । आ । उ॒त । दू॒रात् ।
आ । भन्दि॑ष्ठस्य । सु॒ऽम॒तिम् । चि॒कि॒द्धि॒ । बृ॒हत् । ते॒ । अ॒ग्ने॒ । महि॑ । शर्म॑ । भ॒द्रम् ॥
हे यविष्ठ युवतमाग्ने तुभ्यं क्षितयो मनुष्या भरन्ति । सम्पादयन्ति । किम् । बलिं पूजां हविर्लक्शणामन्तितोऽन्तिकादुतापि च दूरात् । आ इति चार्थे । किञ्च भन्दिष्थस्यातिशयेन स्तोतुः सुमतिं स्तुतिमा चिकिद्धिः । अजानीहि । हे अग्ने ते तव शर्म सुखमस्मभ्यं दातव्यं बृहन्महद्भद्रं स्तुत्यं च ॥ १० ॥