मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् ११

संहिता

आद्य रथं॑ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभि॒ः सम॑न्तम् ।
वि॒द्वान्प॑थी॒नामु॒र्व१॒॑न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥

पदपाठः

आ । अ॒द्य । रथ॑म् । भा॒नु॒ऽमः॒ । भा॒नु॒ऽमन्त॑म् । अग्ने॑ । तिष्ठ॑ । य॒ज॒तेभिः॑ । सम्ऽअ॑न्तम् ।
वि॒द्वान् । प॒थी॒नाम् । उ॒रु । अ॒न्तरि॑क्षम् । आ । इ॒ह । दे॒वान् । ह॒विः॒ऽअद्या॑य । व॒क्षि॒ ॥

सायणभाष्यम्

हे भानमो दीप्तिमन्नग्ने अद्यास्मिन्यागदिने भानुमन्तं दीप्तिमन्तं समन्तं संईचीनप्रान्तोपेतं रथं यजतेभिर्यष्टव्यैर्देवैः सहा तिष्ठ । आरोह । विद्वान्यष्टव्यदेवपरिज्ञानवांस्त्वं पथीनां देवयजनमार्गान्प्रति । द्वितीयार्थे षष्ठी । उर्वन्तरिक्षं प्रभुतेऽन्तरिक्षे देवान्यष्टव्यान्हविरद्याय हविर्भक्षणायेहावक्षि । आवहसि ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३