मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १, ऋक् १२

संहिता

अवो॑चाम क॒वये॒ मेध्या॑य॒ वचो॑ व॒न्दारु॑ वृष॒भाय॒ वृष्णे॑ ।
गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी॑व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ॥

पदपाठः

अवो॑चाम । क॒वये॑ । मेध्या॑य । वचः॑ । व॒न्दारु॑ । वृ॒ष॒भाय॑ । वृष्णे॑ ।
गवि॑ष्ठिरः । नम॑सा । स्तोम॑म् । अ॒ग्नौ । दि॒विऽइ॑व । रु॒क्मम् । उ॒रु॒ऽव्यञ्च॑म् । अ॒श्रे॒त् ॥

सायणभाष्यम्

वयमात्रेयाः कवये मेधाविने मेध्याय मेहार्हाय वृषभाय वर्षकाय फलानां वृष्णे सेक्त्रे यूने वन्दारु वन्दनशीलं वचः स्तोत्रमवोचाम । अथ ऋषिरात्मानम् परोक्षेणैव निर्दिश्य स्तुतिमुपसंहरति । गविष्ठिरोऽयमृषिर्नमसा नमस्कारेण हविषा वा युक्तं स्तोमं स्तोत्रमग्नावश्रेत् । श्रयतिस्म । दिवि रुक्मं रोचमानमुरुव्यञ्चमुरुगमनमादित्यमिव ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३