मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ३

संहिता

हिर॑ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा॑दपश्य॒मायु॑धा॒ मिमा॑नम् ।
द॒दा॒नो अ॑स्मा अ॒मृतं॑ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ॥

पदपाठः

हिर॑ण्यऽदन्तम् । शुचि॑ऽवर्णम् । आ॒रात् । क्षेत्रा॑त् । अ॒प॒श्य॒म् । आयु॑धा । मिमा॑नम् ।
द॒दा॒नः । अ॒स्मै॒ । अ॒मृत॑म् । वि॒पृक्व॑त् । किम् । माम् । अ॒नि॒न्द्राः । कृ॒ण॒व॒न् । अ॒नु॒क्थाः ॥

सायणभाष्यम्

हिरण्यदन्तं हिरण्यसदृशदन्तस्थानीयज्वालोपेतं शुचिर्णं प्रदीप्तवर्णमायुधायुधान्यायुधस्थानीयान् स्फुलिङ्गान् ज्वाला वा मिमानं निर्मिमाणमग्निमारात्समीपे क्षेत्रात् क्षेत्रे देशेऽपश्यम् । पश्येयम् । एवं वृशः कामयते । अहमस्मा अग्नयेऽमृतमविनाश्यमृतत्वसाधनं वा विपृक्वत्सर्वतो व्याप्तं हविः स्तोत्रं वा ददानः । दातास्मि । मामनिन्द्राः । इन्द्रः परमैश्वर्योऽग्निः । तद्रहिता अनिन्द्राः । इन्द्रमयजन्त इत्यर्थः । अनुक्था अस्तुतय इन्द्रमस्तुवन्तश्च किं कृणवन् । किं कुर्युः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४