मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २, ऋक् ६

संहिता

व॒सां राजा॑नं वस॒तिं जना॑ना॒मरा॑तयो॒ नि द॑धु॒र्मर्त्ये॑षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या॑सो भवन्तु ॥

पदपाठः

व॒साम् । राजा॑नम् । व॒स॒तिम् । जना॑नाम् । अरा॑तयः । नि । द॒धुः॒ । मर्त्ये॑षु ।
ब्रह्मा॑णि । अत्रेः॑ । अव॑ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः॑ । निन्द्या॑सः । भ॒व॒न्तु॒ ॥

सायणभाष्यम्

वसां वसतां प्राणिनां राजानं स्वामिनं जनानां वसतिमावासभूतं त्र्यरुणमुक्तलक्शणमग्निं वारातयो नि दधुः । अगोपयन् । मर्त्येषु लोकेशु मध्ये । अत्रेरत्रिगोत्रस्य वृशस्य ब्रह्माणि मन्त्राः स्तोत्राणि वा तं कुमारमग्निं वाव सृजन्तु । अथवात्रेरत्रिगोत्रस्य कुमारं ब्र्ह्माणि । यद्वा । वृशस्य ब्रह्मण्यत्रेरत्रिगोत्रम् । क्रमणि षष्ठी । तं कुमारमव सृजन्तु । विस्रुजन्तु । निन्दितारोऽस्मन्निन्दका निन्द्यासोऽस्माभिर्निन्द्या भवन्तु । अत्रेर्ब्रह्माणीत्येतदुपजीव्य वृशमप्यात्रेयं वदन्ति । आत्रेयः कुमार इति पक्शे स एव प्रानमयमात्मानमवसृजन्त्वित्याशास्ते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४