मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ५

संहिता

न त्वद्धोता॒ पूर्वो॑ अग्ने॒ यजी॑या॒न्न काव्यै॑ः प॒रो अ॑स्ति स्वधावः ।
वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा॑सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ॥

पदपाठः

न । त्वत् । होता॑ । पूर्वः॑ । अ॒ग्ने॒ । यजी॑यान् । न । काव्यैः॑ । प॒रः । अ॒स्ति॒ । स्व॒धा॒ऽवः ।
वि॒शः । च॒ । यस्याः॑ । अति॑थिः । भवा॑सि । सः । य॒ज्ञेन॑ । व॒न॒व॒त् । दे॒व॒ । मर्ता॑न् ॥

सायणभाष्यम्

हे अग्ने त्वत्त्वत्तोऽन्यो नास्ति होता पूर्वः पूरकः पुराणो वायजीयान्यष्टा वा । काव्यैः स्तोत्रैः स्तुत्यः परः परस्तात्परस्मिन्नपि काले नास्ति । हे देव हे स्वधावोऽन्नवन् यस्या विशः प्रजाया ऋत्विग्रूपाय अतिथिर्भवासि । अतिथिवत्पूज्यो भवसि । स यज्ञेन मर्तानस्मद्द्वेश्टॄन् वनवत् । व्रुश्चति । हिनस्ति । यद्वा । मर्तान्परिचारकान्वनवत् । सम्भजेत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६