मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् ११

संहिता

त्वम॒ङ्ग ज॑रि॒तारं॑ यविष्ठ॒ विश्वा॑न्यग्ने दुरि॒ताति॑ पर्षि ।
स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा॑तकेता वृजि॒ना अ॑भूवन् ॥

पदपाठः

त्वम् । अ॒ङ्ग । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । विश्वा॑नि । अ॒ग्ने॒ । दुः॒ऽइ॒ता । अति॑ । प॒र्षि॒ ।
स्ते॒नाः । अ॒दृ॒श्र॒न् । रि॒पवः॑ । जना॑सः । अज्ञा॑तऽकेताः । वृ॒जि॒नाः । अ॒भू॒व॒न् ॥

सायणभाष्यम्

हे अङ्ग स्वामिन्यविष्ठ युवतमाग्ने जरितारं स्तोतारमनुग्रहीतुं विश्वानि दुरिता दुरितान्यति पर्षि । अतिपारयसि । स्तेनास्तस्करा अदृश्रन् । दृश्यन्ते । रिपवो जनासः शत्रुभूता मनुष्या अज्ञातकेन्ता अप्रज्ञातचिह्ना व्रुजिना अस्माभिर्वर्जिता अभूवन् । भवन्ति ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७