मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ३, ऋक् १२

संहिता

इ॒मे यामा॑सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो॑ अवाचि ।
नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा॑ दात् ॥

पदपाठः

इ॒मे । यामा॑सः । त्व॒द्रिक् । अ॒भू॒व॒न् । वस॑वे । वा॒ । तत् । इत् । आगः॑ । अ॒वा॒चि॒ ।
न । अह॑ । अ॒यम् । अ॒ग्निः । अ॒भिऽश॑स्तये । नः॒ । न । रिष॑ते । व॒वृ॒धा॒नः । परा॑ । दा॒त् ॥

सायणभाष्यम्

इम यमासो गन्तारः स्तोमास्त्वद्रिक् त्वदभिमुखा अभूवन् । भवन्ति । वा अथवा वसवे वासकाय तदागोऽपराधमाशासनरूपमवाचि । उक्तवानहमग्निम् । इदं देहीति याचनमेवापराधः । इदिति पूरणः । यद्वा । तदिदं वक्ष्यमाणं शत्रुभिः कृतमागोऽवाचि । किञ्चायमग्निर्वृधानः स्तुत्या वर्धमानः सन् नाह नैवाभिशस्तये निन्दकाय नोऽस्मान् परा दात् । परादद्यात् । तथा रिषते हिंसकाय नैव परा दात् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७