मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ७, ऋक् ५

संहिता

अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं॑ प॒थिषु॒ जुह्व॑ति ।
अ॒भीमह॒ स्वजे॑न्यं॒ भूमा॑ पृ॒ष्ठेव॑ रुरुहुः ॥

पदपाठः

अव॑ । स्म॒ । यस्य॑ । वेष॑णे । स्वेद॑म् । प॒थिषु॑ । जुह्व॑ति ।
अ॒भि । ई॒म् । अह॑ । स्वऽजे॑न्यम् । भूम॑ । पृ॒ष्ठाऽइ॑व । रु॒रु॒हुः॒ ॥

सायणभाष्यम्

यस्याग्नेर्वेषणे परिचर्यायां पथिषु होममार्गेषु रश्मिषु स्वेदं स्रवदाज्यमवाधोमुखं जुह्वत्यध्वर्यवः तदानीमीमेनमग्निमभि रुरुहुरह । अभ्यारोहन्त्येवाज्यधाराः । अह इति विनिग्रहार्थीयः । स्वजेन्यं स्वोत्पन्नं भूम । बहु भवतिति भूमापत्यम् । तत्पृष्थेव पितुः पृष्ठदेशानिव । पुत्रा यथा पितुरङ्कमारोहन्ति तद्वत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४