मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ९, ऋक् २

संहिता

अ॒ग्निर्होता॒ दास्व॑त॒ः क्षय॑स्य वृ॒क्तब॑र्हिषः ।
सं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रव॒स्यवः॑ ॥

पदपाठः

अ॒ग्निः । होता॑ । दास्व॑तः । क्षय॑स्य । वृ॒क्तऽब॑र्हिषः ।
सम् । य॒ज्ञासः॑ । चर॑न्ति । यम् । सम् । वाजा॑सः । श्र॒व॒स्यवः॑ ॥

सायणभाष्यम्

यं अग्निं यज्ञासः सर्वेयज्ञाः संचरन्ति सहितागच्छन्ति श्रवस्यवः यजमानस्यप्रभूतांकीर्तिंसंपादयन्तोवाजासोहवींषियमग्निंसंचरन्ति प्राप्नुवन्ति एवंविशिष्टोग्निः दास्वतः हविःप्रक्षेपणादिदानवतः वृक्तबर्हिषः वृक्तानिलूनानिबर्हींषिदर्भायेनासौवृक्तबर्हिः तस्य क्षयस्य क्षियन्तिनिवसंत्यस्मिन् स्वर्गसाधनफलानीतिक्षयः तस्य यजमानस्य यागार्थंहोतादेवानामाह्वाताभवति ॥ दास्वतः दादाने असुन्प्रत्ययान्तः मतुपः अदुपधात्वाद्वत्वं धातुस्वरेणाद्युदात्तएव । क्षयस्य क्षिनिवासगत्योः क्षयोनिवासेइत्याद्युदात्तवम् । वृक्तबर्हिषः वृजीवर्जने वर्जनमत्रोपचाराच्छेदनं निष्ठाप्रत्ययस्वरेणान्तोदात्तः बहुव्रीहित्वात्पूर्वपदप्रकृतिस्वरत्वम् । यज्ञासः यज्ञशब्दः यजयाचेत्यादि -नानङ्प्रत्ययान्तोन्तोदात्तः । चरन्ति चरगतिभक्षणयोः अदुपदेशाल्लसार्वधातुकानुदात्तत्वं यद्वृत्तान्नित्य मितिनि घाता-भावः । जाजसाः वजोर्घञ् वाजः कर्षात्वतइत्यन्तोदात्तत्वं छान्दसत्वात् श्नित्यादिर्नित्यमित्याद्युदात्तः । श्रवस्यवः छन्दसिपरेच्छया- मितिक्यच् क्याच्छन्दसीत्युप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः