मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ११, ऋक् ४

संहिता

अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे ।
अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥

पदपाठः

अ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे ।
अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥

सायणभाष्यम्

साधुया सर्वपुरुषार्थानांसाधकः अग्निर्नोयज्ञेअस्मदीयंयागंप्रति उपवेतु आगच्छतु नरः मनुष्याः गृहेगृहे अनुगृहं अग्निंविभरन्ते विहरन्ति विहरणंकुर्वंतीत्यर्थः हव्यवाहनः हव्यानांहविषांवोढाअग्निः दूतः देवानांदूतः अभवत् वृणानाः संभजमानाःसन्तः कविक्रतुं क्रान्तयज्ञं अग्निंवृणते संभजन्ते ॥ साधुया सुपांसुलुगित्यादिनाविभक्तेर्यादेशः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः