मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १३, ऋक् १

संहिता

अर्च॑न्तस्त्वा हवाम॒हेऽर्च॑न्त॒ः समि॑धीमहि ।
अग्ने॒ अर्च॑न्त ऊ॒तये॑ ॥

पदपाठः

अर्च॑न्तः । त्वा॒ । ह॒वा॒म॒हे॒ । अर्च॑न्तः । सम् । इ॒धी॒म॒हि॒ ।
अग्ने॑ । अर्च॑न्तः । ऊ॒तये॑ ॥

सायणभाष्यम्

हेअग्ने त्वा त्वां अर्चन्तः पूजयन्तोवयं ह्वामहे आह्वयामः अर्चन्तस्तुवन्तोवयं ऊतये रक्षणाय तर्पणायवा त्वांसमिधीमहि समिद्भिःसंदीपयामः अर्चन्तइतितृतीयंपदमादरातिशयार्थम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः