मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १३, ऋक् २

संहिता

अ॒ग्नेः स्तोमं॑ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ ।
दे॒वस्य॑ द्रविण॒स्यवः॑ ॥

पदपाठः

अ॒ग्नेः । स्तोम॑म् । म॒ना॒म॒हे॒ । सि॒ध्रम् । अ॒द्य । दि॒वि॒ऽस्पृशः॑ ।
दे॒वस्य॑ । द्र॒वि॒ण॒स्यवः॑ ॥

सायणभाष्यम्

द्रविणस्यवः द्रविणंधनमिच्छन्तोवयं दिविस्पृशः सूर्यआकाशंव्याप्नुवतोदेवस्यद्योतमानस्याग्नेः सिध्रं पुरुषार्थनांसाधकं स्तोमं स्तोत्रं अधास्मिन्नहनि मनामहे ब्रूमः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः