मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १३, ऋक् ३

संहिता

अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा ।
स य॑क्ष॒द्दैव्यं॒ जन॑म् ॥

पदपाठः

अ॒ग्निः । जु॒ष॒त॒ । नः॒ । गिरः॑ । होता॑ । यः । मानु॑षेषु । आ ।
सः । य॒क्ष॒त् । दैव्य॑म् । जन॑म् ॥

सायणभाष्यम्

होत देवानामाह्वाता योग्निर्मानुषेषु आवसति सोग्निर्नोस्माकंगिरःस्तुतीः जुषत सेवतां सोग्निर्दैव्यंजनंदेवसंबन्धिनंजनं यक्षत् यजतु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः