मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १३, ऋक् ६

संहिता

अग्ने॑ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि ।
आ राध॑श्चि॒त्रमृ॑ञ्जसे ॥

पदपाठः

अग्ने॑ । ने॒मिः । अ॒रान्ऽइ॑व । दे॒वान् । त्वम् । प॒रि॒ऽभूः । अ॒सि॒ ।
आ । राधः॑ । चि॒त्रम् । ऋ॒ञ्ज॒से॒ ॥

सायणभाष्यम्

हेअग्ने त्वं देवान् परिभूरसि स्वतेजसापरिभवसि कथमिव नेमिः प्रकाशमानः चक्रस्य बाह्योवलयः अरानिव नाभावर्पितान् सूक्ष्मान् स्थासकानिव किंच चित्रं नानाविधं राधः राध्नुवन्तिसाधयंत्यनेनपुरुषार्थानितिराधोधनं आऋंजसे स्तोतृभ्यःप्रसाधय धननामसुपाठात् राधोधनमित्युक्तम् ॥ ६ ॥

अग्निंस्तोमेनेतिषळृचंचतुर्दशंसूक्तं सुतंभरस्यार्षंगायत्रमाग्नेयं अग्निंस्तोमेनेत्यनुक्रमणिका । प्रातरनुवाकाश्विनशस्त्रयोः पूर्वसूक्तेनसहोक्तोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः