मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १४, ऋक् १

संहिता

अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् ।
ह॒व्या दे॒वेषु॑ नो दधत् ॥

पदपाठः

अ॒ग्निम् । स्तोमे॑न । बो॒ध॒य॒ । स॒म्ऽइ॒धा॒नः । अम॑र्त्यम् ।
ह॒व्या । दे॒वेषु॑ । नः॒ । द॒ध॒त् ॥

सायणभाष्यम्

हेस्तोतः अमर्त्यं अमरणधर्माणमग्निंस्तोमेनस्तोत्रेणबोधय स्वाभिलषितार्थसिद्धयेप्रबोधय योग्निःसमिधानः स्तोत्रैःसम्यक् प्रकाशमानः सनोहव्या अस्मदीयानिहव्यानिहवींषि देवेषुदधत् निदधातु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः