मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १४, ऋक् ५

संहिता

अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत ।
वेतु॑ मे शृ॒णव॒द्धव॑म् ॥

पदपाठः

अ॒ग्निम् । ई॒ळेन्य॑म् । क॒विम् । घृ॒तऽपृ॑ष्ठम् । स॒प॒र्य॒त॒ ।
वेतु॑ । मे॒ । शृ॒णव॑त् । हव॑म् ॥

सायणभाष्यम्

हेजनः ईळेन्यंस्तुत्यंकविं क्रान्तदर्शिनं घृतपृष्ठं दीप्तोपरिभागं अग्निं सपर्यत पूजयत सोग्निर्मेहवं मदीयमाह्वानं वेतु कामयतां श्रृणवत् श्रृणोतुच ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः