मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १४, ऋक् ६

संहिता

अ॒ग्निं घृ॒तेन॑ वावृधु॒ः स्तोमे॑भिर्वि॒श्वच॑र्षणिम् ।
स्वा॒धीभि॑र्वच॒स्युभि॑ः ॥

पदपाठः

अ॒ग्निम् । घृ॒तेन॑ । व॒वृ॒धुः॒ । स्तोमे॑भिः । वि॒श्वऽच॑र्षणिम् ।
सु॒ऽआ॒धीभिः॑ । व॒च॒स्युऽभिः॑ ॥

सायणभाष्यम्

ऋत्विजः विश्वचर्षणिं विश्वस्यद्रष्टारं स्वाधीभिः शोभनाध्यानैः वचस्युभिः स्तुतिकामैर्देवैः समेतमग्निं घृतेन स्तोमेभिः स्तोमैःस्तोत्रैः ववृधुः अवर्धयन् ॥ ६ ॥

द्वितीयेनुवाकेऽष्टादशसूक्तानि तत्रप्रवेधसइतिपंचर्चंप्रथमंसूक्तं आंगिरसस्यधरुणस्यार्षं त्रैष्टुभमाग्नेयं अत्रानुक्रमणिका-प्रवेधसेपंचांगिरसोधरुणइति । प्रातरनुवाकेआग्नेयेक्रतौ त्रैष्टुभेछन्दसि आश्विनशस्त्रेचेदंसूक्तं सूत्रितंच-प्रवेधसेकवयेत्वंनोअग्नेवरुणस्यविद्वानितीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः