मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १५, ऋक् १

संहिता

प्र वे॒धसे॑ क॒वये॒ वेद्या॑य॒ गिरं॑ भरे य॒शसे॑ पू॒र्व्याय॑ ।
घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो॑ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो॑ अ॒ग्निः ॥

पदपाठः

प्र । वे॒धसे॑ । क॒वये॑ । वेद्या॑य । गिर॑म् । भ॒रे॒ । य॒शसे॑ । पू॒र्व्याय॑ ।
घृ॒तऽप्र॑सत्तः । असु॑रः । सु॒ऽशेवः॑ । रा॒यः । ध॒र्ता । ध॒रुणः॑ । वस्वः॑ । अ॒ग्निः ॥

सायणभाष्यम्

योग्निर्घृतप्रसत्तः हवीरूपेणघृतेनप्रसन्नः असुरोबलवान् सुशेवः शोभनं शेवं सुखं यस्यासौसुशेवः शेवमितिसुखनामसुपाठात् रायोधनस्यधर्ता पोषकः धरुणः हविषां धारकः वस्वः वासकोग्निर्भवति वेधसे विधात्रे कवये क्रांतदृशे वेद्याय स्तुत्याय विदिरयंमनिनासमानार्थः मनिश्चस्तुतिकर्मा यशसेयशस्विने पूर्व्याय मुख्याय तस्मैअग्नये गिरं स्तुतिं प्रभरेप्रणयामि ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः