मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १५, ऋक् २

संहिता

ऋ॒तेन॑ ऋ॒तं ध॒रुणं॑ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो॑मन् ।
दि॒वो धर्म॑न्ध॒रुणे॑ से॒दुषो॒ नॄञ्जा॒तैरजा॑ताँ अ॒भि ये न॑न॒क्षुः ॥

पदपाठः

ऋ॒तेन॑ । ऋ॒तम् । ध॒रुण॑म् । धा॒र॒य॒न्त॒ । य॒ज्ञस्य॑ । शा॒के । प॒र॒मे । विऽओ॑मन् ।
दि॒वः । धर्म॑न् । ध॒रुणे॑ । से॒दुषः॑ । नॄन् । जा॒तैः । अजा॑तान् । अ॒भि । ये । न॒न॒क्षुः ॥

सायणभाष्यम्

येयजमानाः दिवोद्युलोकस्य धरुणे धारके धर्मन् यज्ञे सेदुषः आसीनान् नॄन् नेतॄन् अजातान् देवान् जातैर्मनुष्यैरृत्विग्भिः अभिननक्षुः अभिप्राप्नुवन्ति तेयजमानाः यज्ञस्यधरुणं धारकं ऋतं सत्यरूपमग्निं शाके कर्मणिनिमित्ते परमे उत्कृष्टे व्योमन् स्थाने उत्तरवेद्यां ऋतेनस्तोत्रेणधारयन्तधारयन्ति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः