मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १५, ऋक् ३

संहिता

अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो॑ म॒हद्दु॒ष्टरं॑ पू॒र्व्याय॑ ।
स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भित॒ः परि॑ ष्ठुः ॥

पदपाठः

अं॒हः॒ऽयुवः॑ । त॒न्वः॑ । त॒न्व॒ते॒ । वि । वयः॑ । म॒हत् । दु॒स्तर॑म् । पू॒र्व्याय॑ ।
सः । स॒म्ऽवतः॑ । नव॑ऽजातः । तु॒तु॒र्या॒त् । सिं॒हम् । न । क्रु॒द्धम् । अ॒भितः॑ । परि॑ । स्थुः ॥

सायणभाष्यम्

येयजमानाः पूर्व्याय मुख्याय अस्मै अग्नये महत् अधिकं दुष्टरं राक्षसैर्दुःप्रापं वयः हवीरूपमन्नं प्रयच्छन्ति तेयजमानाः तन्वः स्वास्तनूः अंहोयुवः अंहसावियोजिकाः वितन्वते विस्तारयन्ति नवजातः सोग्निः संवतः संगतान् शत्रून् तुतुर्यात् तरतु किंच अभितः सर्वतोवर्तमानाः शत्रवः मां परिवर्जयित्वास्थुः तिष्ठेयुः कथमिव क्रुद्धंसिंहंन सिंहमिव ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः