मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १५, ऋक् ४

संहिता

मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं॑जनं॒ धाय॑से॒ चक्ष॑से च ।
वयो॑वयो जरसे॒ यद्दधा॑न॒ः परि॒ त्मना॒ विषु॑रूपो जिगासि ॥

पदपाठः

मा॒ताऽइ॑व । यत् । भर॑से । प॒प्र॒था॒नः । जन॑म्ऽजनम् । धाय॑से । चक्ष॑से । च॒ ।
वयः॑ऽवयः । ज॒र॒से॒ । यत् । दधा॑नः । परि॑ । त्मना॑ । विषु॑ऽरूपः । जि॒गा॒सि॒ ॥

सायणभाष्यम्

पप्रथानः सर्वत्रप्रथानोयत् यस्त्वं मातेव जननीव जनंजनं सर्वंजनं भरसे बिभर्षि किंच धायसे धारणाय चक्षसे दर्शनायच सर्वैःप्रार्थ्यसे यत् यदा दधानोधार्यमाणोभवसि तदावयोवयः सर्वमन्नं जरसे जरयसि अपिच विषुरूपोनानारूपः सन् त्मना आत्मना परिजिगासि सर्वभूतानिपरिगच्छसि ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः