मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १५, ऋक् ५

संहिता

वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं॑ ध॒रुणं॑ देव रा॒यः ।
प॒दं न ता॒युर्गुहा॒ दधा॑नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ॥

पदपाठः

वाजः॑ । नु । ते॒ । शव॑सः । पा॒तु॒ । अन्त॑म् । उ॒रुम् । दोघ॑म् । ध॒रुण॑म् । दे॒व॒ । रा॒यः ।
प॒दम् । न । ता॒युः । गुहा॑ । दधा॑नः । म॒हः । रा॒ये । चि॒तय॑न् । अत्रि॑म् । अ॒स्प॒रित्य॑स्पः ॥

सायणभाष्यम्

हेदेव द्योतमानाग्ने उरुं पृथुं दोघं कामानांदोग्धारं रायोधनस्यधरुणं धारकं वाजोहविर्लक्षणमन्नं तेत्वदीयस्यशवसोबलस्यान्तं समाप्तिं संपूर्ति नु अद्य पातु रक्षतु तायुस्तस्करः तायुरितिस्तेननाम पदमिव आत्मीयंमार्गमिव गुहा गुहायां दधानः आत्मनःशत्रूणांप्रकाशं निदधानः महोमहते राये धनाय धनलाभार्थं चितयन् सन्मार्गंप्रकाशयन् अत्रिमस्यः अत्रिमृषिं अप्रीणयः यद्वा तं आपद्भ्यः अपारयः स्पृप्रीणनपारणयोरितिधातुः ॥ ५ ॥

बृहद्वयइतिपंचर्चंद्वितीयंसूक्तं आत्रेयस्यपूरोरार्षं अन्त्यापंक्तिः शिष्टाअनुष्टुभः अग्निर्देवता तथाचानुक्रान्तम्-बृहत्पूरुः पंक्त्यंतंहीति । प्रातरनुवाके आग्नेयेक्रतौआनुष्टुभेछन्दसि आश्विनशस्त्रेचेदमादीनिदशसूक्तानि चतुर्थनवमवर्जितानि आदितस्त्रिषुसूक्तेषुअंत्यामुद्धरेत् तथाचसूत्रितम् बृहद्वयइतिदशानांचतुर्थनवमेउद्धरेदुत्तमांचादितस्त्रयाणामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः