मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १६, ऋक् ३

संहिता

अ॒स्य स्तोमे॑ म॒घोनः॑ स॒ख्ये वृ॒द्धशो॑चिषः ।
विश्वा॒ यस्मि॑न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ॥

पदपाठः

अ॒स्य । स्तोमे॑ । म॒घोनः॑ । स॒ख्ये । वृ॒द्धऽशो॑चिषः ।
विश्वा॑ । यस्मि॑न् । तु॒वि॒ऽस्वनि॑ । सम् । अ॒र्ये । शुष्म॑म् । आ॒ऽद॒धुः ॥

सायणभाष्यम्

मघोनोमघवतोधनवतः वृद्धशोचिषः वृद्धानिप्रवृद्धानिशोचींषितेजांसियस्यासौवृद्धशोचिः तस्यएवंविधस्यास्याग्नेः स्तोमे स्तोत्रे सख्येचस्याम तुविष्वणि बहुशब्दे अर्येस्वामिनि यस्मिन्नग्नौविश्वा सुपांसुलुगितिडादेशः विश्वेसर्वेऋत्विजः शुष्मंबलं हविर्भिःस्तोत्रैः समादधुः सम्यगादधति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः