मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १६, ऋक् ४

संहिता

अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना॑ ।
तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो॑ बभूवतुः ॥

पदपाठः

अध॑ । हि । अ॒ग्ने॒ । ए॒षा॒म् । सु॒ऽवीर्य॑स्य । मं॒हना॑ ।
तम् । इत् । य॒ह्वम् । न । रोद॑सी॒ इति॑ । परि॑ । श्रवः॑ । ब॒भू॒व॒तुः॒ ॥

सायणभाष्यम्

हेअग्ने अध अथ एषामस्माकंयजमानानांसुवीर्यस्य सर्वैःस्पृहणीयस्य बलस्य मंहना मंहनायै दानायभव मंहतिर्दानकर्मा रोदसीद्यावापृथिव्यौ यह्वंन महान्तंसूर्यमिव श्रवःसर्वैः श्रवणीयंतमित् तमग्निमेवपरिबभूवतुः परिगृह्णीतः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः