मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १७, ऋक् २

संहिता

अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से ।
तं नाकं॑ चि॒त्रशो॑चिषं म॒न्द्रं प॒रो म॑नी॒षया॑ ॥

पदपाठः

अस्य॑ । हि । स्वय॑शःऽतरः । आ॒सा । वि॒ऽध॒र्म॒न् । मन्य॑से ।
तम् । नाक॑म् । चि॒त्रऽशो॑चिषम् । म॒न्द्रम् । प॒रः । म॒नी॒षया॑ ॥

सायणभाष्यम्

हेविधर्मन् विशिष्टोधर्मोयस्यासौविधर्मा स्तोता तस्यसंबोधनं हेस्तोतः स्वयशस्तरः सुयशसांमध्येअतिशयेन सुयशास्त्वं मनीषया –प्रकृष्टबुद्भ्यासाधनेन तं प्रसिद्धं अस्य अमुं हृग्निं आसा आस्येन वाचामन्यसेस्तौषि किंविशिष्टमग्निं नाकं सुखं अकंदुःखं नविद्यतेअकंयस्यसः तं चित्रशोचिषं चित्रंतेजसं मन्द्रं स्तुत्यं परः परस्तात्स्थितम् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः