मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १७, ऋक् ३

संहिता

अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा ।
दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच॑न्त्य॒र्चयः॑ ॥

पदपाठः

अ॒स्य । वै । अ॒सौ । ऊं॒ इति॑ । अ॒र्चिषा॑ । यः । अयु॑क्त । तु॒जा । गि॒रा ।
दि॒वः । न । यस्य॑ । रेत॑सा । बृ॒हत् । शोच॑न्ति । अ॒र्चयः॑ ॥

सायणभाष्यम्

योग्निः तुजा जगद्रक्षणसमर्थेनबलेन गिरास्तुत्या अयुक्त संबद्धोभवत् दिवोन द्योतमानस्यादित्यस्यैव यस्याग्नेरेतसा प्रभया कृत्स्नंजगद्भ्याप्तं यस्याग्नेर्बृहत् बृहन्तः अर्चयोदीप्तयः शोचन्तिप्रकाशन्ते अस्यवैखल्वग्नेरर्चिषाप्रभयाअसावादित्यः अर्चिष्मान्भवति उइतिपरणः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः