मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १७, ऋक् ४

संहिता

अ॒स्य क्रत्वा॒ विचे॑तसो द॒स्मस्य॒ वसु॒ रथ॒ आ ।
अधा॒ विश्वा॑सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ॥

पदपाठः

अ॒स्य । क्रत्वा॑ । विऽचे॑तसः । द॒स्मस्य॑ । वसु॑ । रथे॑ । आ ।
अध॑ । विश्वा॑सु । हव्यः॑ । अ॒ग्निः । वि॒क्षु । प्र । श॒स्य॒ते॒ ॥

सायणभाष्यम्

विचेतसः सुमतयः ऋत्विजः दस्मस्य दर्शनीयस्यास्याग्नेः क्रत्वा कर्मणा यज्ञादिना वसु वसूनि धनानि रथे आदधति हव्यः यज्ञार्थंआह्वातव्यः सोग्निः अध अथ उत्पत्त्यनंतरमेवविश्वासुसर्वासुविक्षुप्रजासु प्रशस्यते स्तूयते ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः