मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १८, ऋक् १

संहिता

प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः ।
विश्वा॑नि॒ यो अम॑र्त्यो ह॒व्या मर्ते॑षु॒ रण्य॑ति ॥

पदपाठः

प्रा॒तः । अ॒ग्निः । पु॒रु॒ऽप्रि॒यः । वि॒शः । स्त॒वे॒त॒ । अति॑थिः ।
विश्वा॑नि । यः । अम॑र्त्यः । ह॒व्या । मर्ते॑षु । रण्य॑ति ॥

सायणभाष्यम्

पुरुप्रियः बहुप्रियः विशः यजमानेधनस्यनिवेशकः अतिथिः यजमानानांगृहान्प्रतितिथिषु अभ्येतीत्यतिथिः तथाहयास्कः-अतिथिरभ्यतितोगृहान्भवत्यभ्येतितिथिषुपरकुलानीतिवापरगृहाणीतिवेति । एवंविधोग्निः प्रातःस्तवेत स्तूयते अमर्त्यः अमरणधर्मायोग्निः मर्तेषुमनुष्येषु यजमानेषु स्थितानि विश्वानि सर्वाणि हव्या ह्व्यानि हवींषि रण्यति कामयते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०