मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १९, ऋक् १

संहिता

अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥

पदपाठः

अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।
उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥

सायणभाष्यम्

वव्रेः ऋषेः उत्तरोत्तरमवस्थाः अशोभनादशाः प्रजायन्ते तादृशीः वव्रिर्हविषां संभक्तासोग्निः प्रचिकेत प्रजानीयात् ज्ञात्वाचापनयत्वितिभावः योग्निर्मातुः पृथिव्याउपस्थेसमीपेस्थितंपदार्थजातं विचष्टे पश्यति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११