मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् १९, ऋक् ५

संहिता

क्रीळ॑न्नो रश्म॒ आ भु॑व॒ः सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।
ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥

पदपाठः

क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः ।
ताः । अ॒स्य॒ । स॒न् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥

सायणभाष्यम्

हेश्मे रशिममन्नग्ने क्रीळन् वनेषुक्रीडन् भस्मनस्वकार्येणभसितेनवायुनाप्रेरकेणमरुताचसंवेविदानः सम्यक् ज्ञायमानः त्वंनोस्माकं आभुवः अभिमुखोभव वक्षणेस्थाः वक्षणेवह्नौस्थिताः वक्ष्यः हविर्वहन्तीतिवक्ष्योज्वालाः सुसंशिताः सुतीक्ष्णाः धृषजः शत्रूणांधर्षकाः ताज्वालाः अस्ययजमानस्यमम न तिग्माः नतीक्ष्णाः सन् सन्तु अस्तेर्लिटिरूपम् ॥ ५ ॥

यमग्नइतिचतुरृचंषष्ठसूक्तं अत्रीणांप्रयस्वतामार्षं आग्नेयं अंत्यापंक्तिः शिष्टाअनुष्टुभः तथाचानुक्रान्तं-यमग्नेचतुष्कंप्रयस्वन्तःपंक्त्यंतंहेति । प्रातरनुवाकाशिनशस्त्रयोरुक्तोविनियोगः अत्रेश्चतुर्वीराख्येहीतिद्वितीयेहनीदंसूक्तंआज्यशस्त्रं सूत्रितंच-यमग्नेवाजसातमेतिद्वितीयेहन्याज्यमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११