मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २२, ऋक् २

संहिता

न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विज॑म् ।
प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥

पदपाठः

नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ।
प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ॥

सायणभाष्यम्

हेयजमानाः जातवेदसं जातप्रज्ञं जातधनंवा देवं द्योतमानं ऋत्विजं ऋतुयष्टारं अग्निं निदधात निधत्त किंच देवव्यचस्तमः देवानामाप्ततमोयज्ञोयज्ञसाधनं अस्माभिर्दीयमानंहविः आनुषक् अनुषक्तंयथाभवतितथा अद्यास्मिन्नहनि तमग्निंप्रैतु प्रयच्छतु ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४