मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २३, ऋक् १

संहिता

अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम् ।
विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॒॑सा वाजे॑षु सा॒सह॑त् ॥

पदपाठः

अग्ने॑ । सह॑न्तम् । आ । भ॒र॒ । द्यु॒म्नस्य॑ । प्र॒ऽसहा॑ । र॒यिम् ।
विश्वाः॑ । यः । च॒र्ष॒णीः । अ॒भि । आ॒सा । वाजे॑षु । स॒सह॑त् ॥

सायणभाष्यम्

हेअग्ने प्रासहा प्रकृष्टेनबलेनसहंतं शत्रूनभिभवन्तं रयिं पुत्रं द्युम्नस्य द्युम्नाय मम ऋषये आभर आहर चतुर्थ्यर्थेषष्ठी एतदेवविवृणोति यःपुत्रः आसा आस्येन स्तोत्रेणयुक्त सन् वाजेषु युद्धेषु अभि आभिमुख्येनगतान् विश्वाः सर्वान् चर्षणीर्मनुष्यान् शत्रून् ससहत् अभिभवति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५