मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २४, ऋक् १

संहिता

अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॑ः ॥

पदपाठः

अग्ने॑ । त्वम् । नः॒ । अन्त॑मः । उ॒त । त्रा॒ता । शि॒वः । भ॒व॒ । व॒रू॒थ्यः॑ ॥

सायणभाष्यम्

हेअग्ने वरूथ्यः वरणीयः संभजनीयः यद्वा वरूथैः परिधिभिर्वृतस्त्वंनोस्माकंअंतिमोन्तिकत भव उतापिच त्राता रक्षकः शिवः सुखकरश्चभव वसुर्वासकोग्निःसर्वेषामग्नणीः वसुश्रर व्याप्तान्नस्त्वं अच्छ आभिमुख्येननक्षि अस्मान् व्याप्नुहि द्युमत्तमं अतिशयेनदीप्तिमत् रयिं पदादिलक्षणंधनं दाः अस्मभ्यंदेहि ॥ १ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६