मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् १

संहिता

अच्छा॑ वो अ॒ग्निमव॑से दे॒वं गा॑सि॒ स नो॒ वसु॑ः ।
रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा॑ पर्षति द्वि॒षः ॥

पदपाठः

अच्छ॑ । वः॒ । अ॒ग्निम् । अव॑से । दे॒वम् । गा॒सि॒ । सः । नः॒ । वसुः॑ ।
रास॑त् । पु॒त्रः । ऋ॒षू॒णाम् । ऋ॒तऽवा॑ । प॒र्ष॒ति॒ । द्वि॒षः ॥

सायणभाष्यम्

हेवसूयवः वोयूयं देवमाग्निं अवसे रक्षणाय अच्छगासि अभिगायत वसुः अग्निहोत्रार्थंयजमानानांगृहेवासयितासोग्निर्नोस्मभ्यंरासत् कामान् ददातु ऋषूणामृषीणांपुत्रः ऋषिभिर्मन्थनेनजनितत्वात् पुत्रउपचर्यते ऋतावा ऋतावान् सत्यवानुदकवान्वासोग्निः द्विषः अस्माकं शत्रून् पर्षति पारयतु ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७