मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ४

संहिता

अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते॑ष्वावि॒शन् ।
अ॒ग्निर्नो॑ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ॥

पदपाठः

अ॒ग्निः । दे॒वेषु॑ । रा॒ज॒ति॒ । अ॒ग्निः । मर्ते॑षु । आ॒ऽवि॒शन् ।
अ॒ग्निः । नः॒ । ह॒व्य॒ऽवाह॑नः॑ । अ॒ग्निम् । धी॒भिः । स॒प॒र्य॒त॒ ॥

सायणभाष्यम्

योग्निर्देवेषु देवानांमध्येराजति देवतारूपेणप्रकाशते योग्निर्मर्तेषु मनुष्येषु आविशन् आहवनीयादिरूपेणप्रविष्टोभवति योग्निर्नोस्माकंहव्यवाहनोभवति अस्मदीयेषुयज्ञेषुदेवतार्थं हव्यानांवोढाभवति हेयजमानाः तमग्निंधीभिःस्तुतिभिःसपर्यत परिचरत ॥ ४ ॥ पुत्रकामेष्ठ्यांअग्निस्तुविश्रवस्तममितिद्वेस्विष्टकृतोयाज्यानुवाक्ये सूत्रितंच-अग्निस्तुविश्रवस्तममितिद्वेसंयाज्येइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७