मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ५

संहिता

अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र॑ह्माणमुत्त॒मम् ।
अ॒तूर्तं॑ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे॑ ॥

पदपाठः

अ॒ग्निः । तु॒विश्र॑वःऽतमम् । तु॒विऽब्र॑ह्माणम् । उ॒त्ऽत॒मम् ।
अ॒तूर्त॑म् । श्र॒व॒यत्ऽप॑तिम् । पु॒त्रम् । द॒दा॒ति॒ । दा॒शुषे॑ ॥

सायणभाष्यम्

अग्निस्तुविश्रवस्तमं अतिशयेनबह्वन्नं तुविब्रह्माणं बहुस्तोत्रं उत्तममुत्कृष्टं अतूर्तं शत्रुभिरहिंसितं श्रावयत्पातीं श्रावयति विश्रुतान् करोति पतिन् पालयितॄन् पितॄनिति स्वकर्मणापितॄणांप्रख्यापकइतिश्रावयत्पतिः तथाविधं पुत्रं दाशुषेहवींषिदत्तवतेयजमानाय ददातिददातु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७