मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २५, ऋक् ६

संहिता

अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभि॑ः ।
अ॒ग्निरत्यं॑ रघु॒ष्यदं॒ जेता॑र॒मप॑राजितम् ॥

पदपाठः

अ॒ग्निः । द॒दा॒ति॒ । सत्ऽप॑तिम् । स॒साह॑ । यः । यु॒धा । नृऽभिः॑ ।
अ॒ग्निः । अत्य॑म् । र॒घु॒ऽस्यद॑म् । जेता॑रम् । अप॑राऽजितम् ॥

सायणभाष्यम्

यः पुत्रः युधा युद्धेन नृभिःपरिजनैः ससाह शत्रूनभिभवति सत्पतिं सतांपालयितारं तथाविधंपुत्रं अग्निर्ददाति अस्मभ्यंददातु किंचाग्निः रघुष्यदं रघुःलघुः स्यदोजवोयस्यतं जेतारंशत्रूणां अपराजितंशत्रुभिः अत्यं अततिसततंगच्छत्यत्योश्वःतंददातु ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८