मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ४

संहिता

अग्ने॒ विश्वे॑भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा॑तये ।
होता॑रं त्वा वृणीमहे ॥

पदपाठः

अग्ने॑ । विश्वे॑भिः । आ । ग॒हि॒ । दे॒वेभिः॑ । ह॒व्यऽदा॑तये ।
होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ ॥

सायणभाष्यम्

हेअग्ने विश्वेभिः सर्वैः देवेभिः देवैः सह त्वं हव्यदातये हविषांदात्रे यजमानाय तदर्थं आगहि यज्ञंप्रत्यागच्छ यतः होतारंदेवानामाह्वातारं त्वा त्वां वृणीमहे प्रार्थयामहे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९