मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २६, ऋक् ८

संहिता

प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ।
स्तृ॒णी॒त ब॒र्हिरा॒सदे॑ ॥

पदपाठः

प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ।
स्तृ॒णी॒त । ब॒र्हिः । आ॒ऽसदे॑ ॥

सायणभाष्यम्

अद्यास्मिन्नहनि देवव्यचस्तमः देवैः प्रकाशमानैः स्तोतृभिर्व्याप्ततमोयज्ञोयज्ञसाधनंहविरानुषक् अनुषक्तंयथाभवतितथाप्रैतु देवान् गच्छतु हेऋत्विजः आसदे अग्नेरासदानार्थं बर्हि स्तृणीत ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०