मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २७, ऋक् १

संहिता

अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ ।
त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभि॑ः स॒हस्रै॒र्वैश्वा॑नर॒ त्र्य॑रुणश्चिकेत ॥

पदपाठः

अन॑स्वन्ता । सत्ऽप॑तिः । म॒म॒हे॒ । मे॒ । गावा॑ । चेति॑ष्ठः । असु॑रः । म॒घोनः॑ ।
त्रै॒वृ॒ष्णः । अ॒ग्ने॒ । द॒शऽभिः॑ । स॒हस्रैः॑ । वैश्वा॑नर । त्रिऽअ॑रुणः । चि॒के॒त॒ ॥

सायणभाष्यम्

अत्रीराजर्षीणांदानमग्नेःपुरतोनेनसूक्तेनावर्णयत् हेवैश्वानर विश्वेषांनराणांनेतः अग्ने सत्पतिः सतांपालयिताचेतिष्ठोज्ञातृतमः असुरोबलवान् मघोनः मघवाधनवान् प्रथमार्थेङसि त्रैवृष्णः त्रिवृष्णपुत्रः त्र्यरुणः त्र्यरुणइतिनामाराजर्षिः अनस्वन्ता अनस्वन्तौ अनसाशकटेनसंपृक्तौ गावा गावौ अनड्वाहौ गवांहिरण्यानांवादशभीः सहस्रैः सहमेमह्यंममहे ददौ महिदानेसराजर्षिः चिकेत सर्वैर्जनैरनेनदानेनज्ञायते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१