मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २८, ऋक् १

संहिता

समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा॑ति ।
एति॒ प्राची॑ वि॒श्ववा॑रा॒ नमो॑भिर्दे॒वाँ ईळा॑ना ह॒विषा॑ घृ॒ताची॑ ॥

पदपाठः

सम्ऽइ॑द्धः । अ॒ग्निः । दि॒वि । शो॒चिः । अ॒श्रे॒त् । प्र॒त्यङ् । उ॒षस॑म् । उ॒र्वि॒या । वि । भा॒ति॒ ।
एति॑ । प्राची॑ । वि॒श्वऽवा॑रा । नमः॑ऽभिः । दे॒वान् । ईळा॑ना । ह॒विषा॑ । घृ॒ताची॑ ॥

सायणभाष्यम्

समिद्धः सम्यक् दीप्तोग्निः दिवि द्योतमानेन्तरिक्षे शोचिस्तेजः अश्रेत् श्रयति तथा उषसं प्रत्यङ्उषसमभिमुखःसन् उर्विया उरु विस्तीर्णं विभाति विशेषेणभ्राजते नमोभिः स्तोत्रैः देवान् इन्द्रादीन् ईळाना स्तुवती हविषापुरोडाशादिलक्षणेनयुक्तया घृताची घृताच्या स्रुचा सहिता विश्ववारा सर्वमपिपापरूपंशत्रुंवारयित्री एतन्नामिका प्राची प्राङ्मुखी सती एति एवंभूतमग्निंप्रतिगच्छति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२