मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २८, ऋक् ३

संहिता

अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु ।
सं जा॑स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां॑सि ॥

पदपाठः

अग्ने॑ । शर्ध॑ । म॒ह॒ते । सौभ॑गाय । तव॑ । द्यु॒म्नानि॑ । उ॒त्ऽत॒मानि॑ । स॒न्तु॒ ।
सम् । जः॒ऽप॒त्यम् । सु॒ऽयम॑म् । आ । कृ॒णु॒ष्व॒ । श॒त्रु॒ऽय॒ताम् । अ॒भि । ति॒ष्ठ॒ । महां॑सि ॥

सायणभाष्यम्

हेअग्ने त्वं महते प्रभूताय सौभगाया अस्माकं शोभनधनत्वाय शर्ध शत्रून् सहस्व तथा तवसंबन्धीनिद्युम्नानिधनानितेजांसिवा उत्तमान्युत्कृष्टानिसन्तु भवन्तु किंच हेअग्ने संजास्पत्यं जाः जा याचपतिश्चजायापती तयोः कर्मजास्पत्यम् तत्सुयमं सुष्ठु नियमनोपेतं अन्योन्यसंश्लिष्टमित्यर्थः समाकृणुष्व सम्यक्कुरुष्व् अपिच शत्रूयतां शत्रुमात्मनइच्छतां सपत्नानां महांसितेजांसिअभितिष्ठ आक्रमस्व ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२