मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २८, ऋक् ४

संहिता

समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय॑म् ।
वृ॒ष॒भो द्यु॒म्नवाँ॑ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ॥

पदपाठः

सम्ऽइ॑द्धस्य । प्रऽम॑हसः । अ॒ग्ने॒ । वन्दे॑ । तव॑ । श्रिय॑म् ।
वृ॒ष॒भः । द्यु॒म्नऽवा॑न् । अ॒सि॒ । सम् । अ॒ध्व॒रेषु॑ । इ॒ध्य॒से॒ ॥

सायणभाष्यम्

हेअग्ने समिद्धस्य प्रवृद्धस्य प्रमहसः प्रकृष्टतेजसस्तवसंबन्धिनिंश्रियंदीप्तिंवन्दे अहं यजमानःस्तौमि वृषभः कामानांवर्षिता त्वं द्युम्नवानसि धनवान्भवसि अध्वरेयज्ञेषुसमिध्यसे सम्यक् दीप्यसे ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२