मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २८, ऋक् ५

संहिता

समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर ।
त्वं हि ह॑व्य॒वाळसि॑ ॥

पदपाठः

सम्ऽइ॑द्धः । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । दे॒वान् । य॒क्षि॒ । सु॒ऽअ॒ध्व॒र॒ ।
त्वम् । हि । ह॒व्य॒ऽवाट् । असि॑ ॥

सायणभाष्यम्

हेआहुत यजमानैरासमन्ताद्धुत हेस्वध्वर शोभनयज्ञोपेत हेअग्ने समिद्धः सम्यग्दीप्तस्त्वं देवान् द्योतमानानिन्द्रादीन् यक्षि यजस्व हियस्मात्कारणात् हेअग्ने त्वंइव्यवाडसि हव्यानांवोढाभवसि अतः कारणाद्देवान्यजस्वेतिसंबंधः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२