मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २८, ऋक् ६

संहिता

आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे ।
वृ॒णी॒ध्वं ह॑व्य॒वाह॑नम् ॥

पदपाठः

आ । जु॒हो॒त॒ । दु॒व॒स्यत॑ । अ॒ग्निम् । प्र॒ऽय॒ति । अ॒ध्व॒रे ।
वृ॒णी॒ध्वम् । ह॒व्य॒ऽवाह॑नम् ॥

सायणभाष्यम्

हेऋत्विजोयूयं अध्वरे अस्मदीयेयागे प्रयति प्रवृत्तेसति हव्यवाहनं हविषांवोढारं एतन्नामकमाग्निं आजुहोत आसमंताज्जुहोत तथा दुवस्यत परिचरत व्रणीध्वंसंभजध्वंच हव्यवाहनंहव्यवाहननामकस्यैवाग्नेर्देवतासंबन्धोयजमानैर्वरणीयत्वंचतैत्तिरीयेस्पष्टमाम्नातं-त्रयोवाअग्नयोहव्यवाहनोदेवानांकव्यवाहनः पितॄणांसहरक्षाअसुराणांतएतर्ह्याशंसंतेमावरिष्यतेमामिति । वृणीध्वंहव्यवाहनमित्याहय -एवदेवानांतंवृणीतइति ॥ ६ ॥

त्र्यर्यमेतिपंचदशर्चंपंचदशंसूक्तं अत्रानुक्रमणिका-त्र्यर्यमापंचोनागौरिवीतिः शाक्त्यऎन्द्रमुशनायदौशनसौवापादइति । शक्तिगोत्रोत्पन्नोगौरिवीतिर्नामऋषिः अनुक्तत्वान्त्रिष्टुप् इन्द्रोदेवता मंडलादिपरिभाषयानिवृत्तत्वात् उशनायत्सहस्यैरितिपादऔशनसः ऎन्द्रोवा आभिप्लविकेतृतीयेहनिमरुत्वतीयेएतन्निविद्धानं सूत्रितंच-तृतीयस्यत्र्यर्यमायोजातएवेतिमाध्यंदिनइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२