मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् २

संहिता

अनु॒ यदीं॑ म॒रुतो॑ मन्दसा॒नमार्च॒न्निन्द्रं॑ पपि॒वांसं॑ सु॒तस्य॑ ।
आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ॥

पदपाठः

अनु॑ । यत् । ई॒म् । म॒रुतः॑ । म॒न्द॒सा॒नम् । आर्च॑न् । इन्द्र॑म् । प॒पि॒ऽवांस॑म् । सु॒तस्य॑ ।
आ । अ॒द॒त्त॒ । वज्र॑म् । अ॒भि । यत् । अहि॑म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊं॒ इति॑ ॥

सायणभाष्यम्

यद्यदामरुतः मन्दसानं तृप्यन्तं सुतस्याभिषुतंसोमं पपिवांसं पीतवन्तं ईमेनमिन्द्रं अन्वार्चन् अन्वस्तुवन् तदेन्द्रः वज्रमादत्त आददौ ततोयद्यदाअहिंवृत्रंअहिहन् अभ्यहन् अभिहतवान् तदायह्वीर्महतीरपः वृत्रेणनिरुद्धान्युदकानि सर्तवैस्वैरत्वेनसर्तुंगन्तुंअसृजत् निरोधाच्चामुंचत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३