मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ५

संहिता

अध॒ क्रत्वा॑ मघव॒न्तुभ्यं॑ दे॒वा अनु॒ विश्वे॑ अददुः सोम॒पेय॑म् ।
यत्सूर्य॑स्य ह॒रित॒ः पत॑न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ॥

पदपाठः

अध॑ । क्रत्वा॑ । म॒घ॒ऽव॒न् । तुभ्य॑म् । दे॒वाः । अनु॑ । विश्वे॑ । अ॒द॒दुः॒ । सो॒म॒ऽपेय॑म् ।
यत् । सूर्य॑स्य । ह॒रितः॑ । पत॑न्तीः । पु॒रः । स॒तीः । उप॑राः । एत॑शे । करिति॒ कः ॥

सायणभाष्यम्

अधापिच हेमघवन् धनवन्निन्द्र क्रत्वा क्रतुना त्वदीयेनकर्मणा विश्वे सर्वे देवाः द्योतमानावह्न्यादयः तुभ्यं त्वदर्थं सोमपेयं सोमपानं अन्वददुः आनुपूर्व्येणदत्तवन्तः ततःप्रभृतीन्द्रोदेवेभ्यः सर्वेभ्योधिकोभवदित्यर्थः तथाचश्रूयते-समहान्भूत्वादेवता अब्रवीदुद्धारंम -उद्धरतेत्यादि । हेइन्द्र यत् यस्त्वं पतन्तीरागच्छन्तीःपुरःसतीःपुरस्ताद्भवतीः सूर्यस्यसंबन्धिनीः हरितोवडवाः उपराउपरतीः मंदगतीःएतशे एतशाख्यायऋषये अकःअकार्षीत् एतशोहि स्वभावेनसूर्येणसहस्पर्धामकरोदितियावत् तथाचनिगमांतरे-प्रैतशंसूर्येपस्पृधानंसौवश्व्येसुष्विमावदिन्द्रइति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३