मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् २९, ऋक् ९

संहिता

उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया॑तं गृ॒हमि॑न्द्र जूजुवा॒नेभि॒रश्वै॑ः ।
व॒न्वा॒नो अत्र॑ स॒रथं॑ ययाथ॒ कुत्से॑न दे॒वैरव॑नोर्ह॒ शुष्ण॑म् ॥

पदपाठः

उ॒शना॑ । यत् । स॒ह॒स्यैः॑ । अया॑तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः॑ । अश्वैः॑ ।
व॒न्वा॒नः । अत्र॑ । स॒रथ॑म् । य॒या॒थ॒ । कुत्से॑न । दे॒वैः । अव॑नोः । ह॒ । शुष्ण॑म् ॥

सायणभाष्यम्

यद्यदा हेइन्द्र त्वं उशनाकाव्यश्च सहस्यैरभिभवनशीलैःजूजुवानेभिः जूजुवानैर्गच्छद्भिः अश्वैः कुर्सस्यगृहं अयातं अगच्छतं तदा हेइन्द्र त्वं अस्मिन्काले वन्वानः शत्रून्हिंसन् कुत्सेन देवैश्चसह सरथं समानमेकंरथं ययाथ जगन्थ किंच शुष्णमेतन्ना मानमसुरं अवनोर्ह अहिंसीःखलु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४